कक्षा 9 संस्कृत: महत्वपूर्णं पत्र-लेखनम् (औपचारिकं एवं अनौपचारिकं च)
औपचारिकं पत्रम् (Formal)
राजकीय-आदर्श-विद्यालयः, देहली।
परीक्षाभवनात्
दिनाङ्क: 12-02-2026
सेवायाम्,
प्रधानाचार्य-महोदयाः,दिनाङ्क: 12-02-2026
राजकीय-आदर्श-विद्यालयः, देहली।
विषयः: भ्रातुः विवाहोत्सवे सम्मिलितं भवितुं दिनत्रयस्य अवकाशार्थं प्रार्थनापत्रम्।
मान्यवराः सविनयं निवेद्यामि यत् आगामी दिनाङ्के मम ज्येष्ठभ्रातुः शुभ-विवाहोत्सवः निश्चितः जातः। वरयात्रा च जयपुरमभिगमिष्यति। गृहे अनेके उत्सवाः भविष्यन्ति येषु मम उपस्थितिः अनिवार्यः अस्ति। अतः अहं विद्यालयम् आगन्तुं सर्वथा असमर्थः अस्मि।
कृपया मह्यं दिनाङ्क 12-02-2026 तः 14-02-2026 पर्यन्तं दिनत्रयस्य अवकाशं प्रदाय कृतार्थयन्तु।
कृपया मह्यं दिनाङ्क 12-02-2026 तः 14-02-2026 पर्यन्तं दिनत्रयस्य अवकाशं प्रदाय कृतार्थयन्तु।
अनौपचारिकं पत्रम् (Informal)
छात्रवासः, विद्यामन्दिरम्
दिनाङ्क: 12-02-2026
पूज्याः पितृचरणाः,
सादरं प्रणामाः।दिनाङ्क: 12-02-2026
अत्र कुशलं तत्रास्तु। मम अर्धवार्षिकी परीक्षा समाप्ता जाता। परीक्षायां मया उत्तमाः अङ्काः प्राप्ताः। इदानीं मम नवमी-कक्षायाः पुस्तकानि क्रेतव्यानि सन्ति। एतदर्थं मह्यं पञ्चशतं (500) रूप्यकाणां आवश्यकता अस्ति।
कृपया भवन्तः शीघ्रमेव धनप्रेषणं कृत्वा अनुगृह्णन्तु। पूज्यायाः मातुः चरणेषु मम प्रणामाः, अनुजाय च स्नेहः।
कृपया भवन्तः शीघ्रमेव धनप्रेषणं कृत्वा अनुगृह्णन्तु। पूज्यायाः मातुः चरणेषु मम प्रणामाः, अनुजाय च स्नेहः।